|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.103. अध्यायः 103
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन दुर्योधनपराजयः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-103-0x(4527)(48778)
एवमुक्त्वाऽर्जुनं राजा त्रिभिर्मर्मातिगैः शरैः।
अभ्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्॥ 7-103-1(48779)
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे।
प्रतोदं चास्य भल्लेन च्छित्त्वा भूमावपातयत्॥ 7-103-2(48780)
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः।
अविध्यत्तूर्णमव्यग्रस्ते चाभ्रश्यन्त वर्मणि॥ 7-103-3(48781)
तेषां नैष्फल्यमालोक्य पुनर्नव च पञ्च च।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः॥ 7-103-4(48782)
अष्टाविंशांस्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः॥ 7-103-5(48783)
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्।
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः॥ 7-103-6(48784)
कच्चिद्गाण्डीवजः प्राणस्तथैव भरतर्षभ।
मुष्टिश्च ते यथा पूर्वं भुजयोश्च बलं तव॥ 7-103-7(48785)
न वा कच्चिदयं कालः प्राप्तः स्यादद्य पश्चिमः।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः॥ 7-103-8(48786)
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्।
व्यर्थान्निपतितान्सङ्खे दुर्योधनरथं प्रति॥ 7-103-9(48787)
वज्राशनिसमा घोराः परकायावभेदिनः।
शराः कुर्वन्ति ते नार्थं पार्थ काऽद्य विडम्बना॥ 7-103-10(48788)
अर्जुन उवाच। 7-103-11x(4528)
द्रोणेन नियतं कृष्ण धार्तराष्ट्रे निदर्शितम्।
अन्ते विहितमस्त्राणामेतत्कवचधारणम्॥ 7-103-11(48789)
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि।
एको द्रोणो हि वैदैतदहं तस्माच्च सत्तमात्॥ 7-103-12(48790)
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन।
अपि वज्रेण गोविन्द स्वयं मघवता युधि॥ 7-103-13(48791)
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते॥ 7-103-14(48792)
यथा भविष्यद्यच्चैव तत्सर्वं विदितं तव।
न त्विदं वेद वै कश्चिद्यथा त्वं मधुसूदन॥ 7-103-15(48793)
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्।
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम्॥ 7-103-16(48794)
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्॥ 7-103-17(48795)
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्॥ 7-103-18(48796)
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्।
तस्माद्वृहस्पतिः प्राप ततः प्राप पुरन्दरः॥ 7-103-19(48797)
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम्।
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्।
नैनं गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया॥ 7-103-20(48798)
सञ्जय उवाच। 7-103-21x(4529)
एवमुक्त्वाऽर्जुनो बाणानभिमन्त्र्य व्यकर्षयत्।
मानवास्त्रेण मानार्हस्तीक्ष्णावरणभेदिना॥ 7-103-21(48799)
विकृष्यमाणांस्तेनैव धनुर्मध्यगताञ्छरान्।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना॥ 7-103-22(48800)
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः॥ 7-103-23(48801)
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन।
अस्त्रं मामेव हन्याद्धि हन्याच्चापि बलं मम॥ 7-103-24(48802)
ततो दुर्योधनः कृष्णौ नवभिर्नवभिः शरैः।
अविध्यत रणे राजञ्शरैराशीविषोपमैः॥ 7-103-25(48803)
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ।
शरवर्षेण महता ततोऽहृष्यन्त तावकाः।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा॥ 7-103-26(48804)
ततः क्रुद्धो रणे पार्थः सृक्विणी परिसंलिहन्।
नापश्यच्च ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्॥ 7-103-27(48805)
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी॥ 7-103-28(48806)
धनुरस्याच्छिनत्तूर्णं हस्तावापं च वीर्यवान्।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे॥ 7-103-29(48807)
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्।
आविद्ध्यद्धस्ततलयोरुभयोरर्जुनस्तदा॥ 7-103-30(48808)
[प्रयत्नज्ञो हि कौन्तयो नखमांसान्तरेषुभिः।
स वेदनाभिराविग्नः पलायनपरायणः॥] 7-103-31(48809)
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः।
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम्॥ 7-103-32(48810)
तं रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम्॥ 7-103-33(48811)
अथ नार्जुनगोविन्दौ न रथो वा व्यदृश्यत।
अस्त्रवर्षेण महता शरौघैश्चापि संवृतौ॥ 7-103-34(48812)
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्।
तत्र व्यङ्गी कृताः पेतुः शतशोऽथ रथद्विपाः॥ 7-103-35(48813)
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्।
स रथः स्तम्भितस्तस्थौ क्रोशमात्रे समन्ततः॥ 7-103-36(48814)
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्।
धनुर्विष्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्॥ 7-103-37(48815)
ततो विष्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्।
महता शरवर्षेण तलशब्देन चार्जुनः॥ 7-103-38(48816)
पाञ्चजन्यं च बलवान्दध्मौ तारेण केशवः।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्॥ 7-103-39(48817)
`तेनाच्युतोष्ठपुटपूरितमारुतेन
शङ्खान्तरोदरविवृद्धविनिःसृतेन।
नादेन सासुरवियत्सुरलोकपाल--
मुद्विग्नमीश्वर जगत्स्फुटतीव सर्वम्'॥ 7-103-40(48818)
तस्य शङ्खस्य नादेन धनुषो निःस्वनेन च।
निःसत्वाश्च ससत्वाश्च क्षितौ पेतुस्तदा जनाः॥ 7-103-41(48819)
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः॥ 7-103-42(48820)
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु।
चक्रुर्नादान्महेष्वासाः कम्पयन्तो वसुन्धराम्॥ 7-103-43(48821)
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिःस्वनैः।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि॥ 7-103-44(48822)
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्।
प्रदध्मतुः शङ्खवरौ वासुदेवधनञ्जयौ॥ 7-103-45(48823)
तेन शब्देन महता पूरितेयं वसुन्धरा।
सशैला सार्णवद्वीपा सपाताला विशाम्पते॥ 7-103-46(48824)
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले॥ 7-103-47(48825)
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ।
सम्भ्रमं परमं प्राप्तास्त्वरमाणा महारथाः॥ 7-103-48(48826)
अथ कृष्णौ महाभागौ तावका वीक्ष्य दंशितौ।
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत्॥ ॥ 7-103-49(48827)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्र्यधिकशततमोऽध्यायः॥ 103 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-103-7 गाण्डीवतो बाणाः इति ड.पाठः। गण्डीवतः प्राणा इति क.ट.पाठः॥ 5-103-17 युक्तां अन्यप्रयुक्ताम्॥ 5-103-20 ससङ्ग्रहं सोपदेशम्। दैवं दैवः कृतम्॥ 5-103-28 निर्देहान् निकृत्तावयवान्॥ 5-103-31 नखमांसान्तरे इषुभिराविद्ध्यदिति पूर्वेणान्वयः। सन्धिरार्षः। अयं श्लोकः झ.पाठ एवास्ति॥ 5-103-36 क्रोशमात्रे सैंधवतोर्थात्॥ 5-103-103 त्र्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|